CBSE Class 11 Sanskrit लघुकथा-लेखनम्

CBSE Class 11 Sanskrit लघुकथा-लेखनम् (शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्तिमाध्यमेन)

(क) प्रदत्त शब्दसूचीसाहाय्येन लघुकथा-लेखनम्

प्रश्नः
प्रदत्तशब्दसूचीसाहाय्येन अधोदत्तां लघुकथां उत्तरपुस्तिकायां पुनः लिखतु भवान्
1. पिपीलका-घासवल्गी-कथा
शब्दसूची – आच्छादिता। शीतकातराः। अलसः। उपागमत्। दीनहीनां। वल्गी। पिपीलिकायाः। दयस्व। प्रियः त्वां।
उत्तरम्:
शीतकाले सम्प्राप्ते पृथ्वी हिमेन आच्छादिता अभवत्। सर्वे शीतकातराः विहगाः वृक्षे निलीय समुपविष्टाः। असौ वराक: अलसः धासवल्गी क्षुधापीडितो जातः। हताशो म्रियमाणश्चासौ पिपीलिकाम् उपागमत्। पिपीलिका तस्य दीनहीनां दशा दृष्ट्वा व्यचिन्तयत्-अयं वल्गी अधुना मम साहाय्यं याचितुम् आयातः। सा तमपृच्छत्-“बन्धोः कुतः आयानि भवान्? सुखिनस्तव किं जातम्? हे सखे! तव दुर्दशां दृष्ट्वा मम भृशं दु:खं भवति।” पिपीलिकायाः वचनं श्रुत्वा करवद्धः स घासवल्गी अकथयत्-” भद्रे! कृपया क्षुधिते मयि दयस्वा” सा पिपीलिका अवदत्-“प्रिय मिर! अस्मिन् वारे तु अहं त्वां क्षमे। भविष्ये मैवम् आचर।” इति कथयित्वा सा तस्मै प्रायच्छत्।

2. वानर-सूचीमुख-कथा
शब्दसूची – वानराः। पक्षी। अवलोक्य। वृथा। गम्यताम्। शीतरक्षा। सुरक्षितः। व्यरमत्। शिलायाम्। इतश्च।
उत्तरम्:
हेमन्ते शीतेन कम्पमानाः वानराः गुञ्जाफलानि अवचित्य वह्निवाञ्छाया फूत्कुर्वन्ति। तत्रागतः सूचीमुखः नाम पक्षी तेषां तं वृथायासम् अवलोक्य अवदत्-” भोः मूर्खाः, एते न वह्निकणाः, गुञ्जाफलानि एतानि, तत् किं वृथा श्रमेण?” वानरैः उक्तम्-“भोः मूर्ख! किं तव अनेन व्यापारेण? तद् गम्यताम्।” असौ पक्षी भूयोऽपि वानरान् अनवरतम् आह–” भोः, किं वृथा क्लेशेन? एतस्मात् शीतरक्षा न भविष्यति। कश्चित् सुरक्षितः निर्वातः वनप्रदेशः गुहा, गिरिकन्दरं वा अन्विष्यताम्।” यावत् असौ सूचीमुखः कथमपि प्रलपन् न व्यरमत् तावत् एकेन कुपितवानरेण पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालितः हतश्च।

(ख) रिक्तस्थानपूर्ति-माध्यमेन लघुकथा-लेखनम्

प्रश्नः
अधोलिखितायां कथायां मञ्जूषायाः पदानि अवचित्य रिक्तस्थानपूर्तिः क्रियताम् –
1. गुरु-शिष्य-कथा
गुरुः शिष्यम् एकान्ते पक्षिशावकं हन्तुमादिशत्। शिष्यः अपरः कुत्रापि एकान्तस्थानम् अप्राप्य गुरोः समक्षं जीवितं पक्षिशावकम् एव समर्प्य न्यवेदयत्-अहं पक्षिहनने असमर्थः अस्मि। यतः कुत्रापि (i) …………….. न लभे। क्वचित् जनाः सन्ति। यत्र (ii) ……………… न सन्ति तत्र (iii) …………….. विद्यन्ते। यत्र तेऽपि न सन्ति तत्र वृक्षलताः निर्झराः (iv) …………….. च सन्ति-एते वाक्शक्तिरहिताः (v) …………….. अपि शावकवधस्य दुष्कर्मणि निरतं मां (vi) …………….। यदि क्वचित् (vii) …………….. अपि न सन्ति तदा (viii) …………….. ममान्तरात्मा मन्दस्वरेण मां कथयति यत् त्वं करोषि तदहं पश्यामि इति। सर्वं श्रुत्वा गुरुणा (ix) …………….. त्वमेव ज्ञानधारणे समर्थः। वत्स, तव मनः शुद्धम्। शुद्धमनसा एव जनः: यथार्थनिर्णयं कर्तुं शक्नोति। स आत्मनः वाणी शृणोति। आत्मा एव सर्वस्य शाश्वत: (x) …………” गरुः।
मञ्जूषा – एकान्तस्थान। कथितम्। मार्गदर्शकः। वृक्षलतादयः। पशुपक्षिणः। जनाः। भूत्वा। पर्वतादयः। धिक्कुर्वन्ति। हृदयस्थः।
उत्तर:
(i) एकान्तस्थानं, (ii) जनाः, (iii) पशुपक्षिणः, (iv) पर्वतादयः, (v) भूत्वा, (vi) धिक्कुर्वन्ति, (vii) वृक्षलतादयः, (viii) हृदयस्थः, (ix) कथितम्, (x) मार्गदर्शकः

2. सत्यभक्तः किरातः
प्रभाते प्रतिदिनम् आगत्य किरातः पूर्ववत् मांसादिभिः पूजाम् अकरोत्। तदनन्तरं ब्राह्मणः आगत्य सर्वम् उत्थाप्य अक्षिपत्-अयं क्रमः दिनत्रयं यावत् अचलत्। अन्ततोगत्वा परमकुपितः ब्राह्मणः अचिन्तयत्-“अहं श्वः प्रभाते आगत्य अवश्यं तं धरिष्यामि यः नित्यं (i) …………….. मलिनं करोति, तथा च तं ताडयिष्यामि येन असौ ईदृशम् (ii) …………….. पुनः कदापि न करिष्यति।” विचित्रा (iii) …………….. आगामिनि (iv) …………….. किरातः अपश्य त्-(v) …………….. दक्षिणवामपाश्र्वाभ्यां रक्तम् प्रावहत्। किरातः, “भगवन्, नेत्रहीनस्त्वं कथं (vi) ……………..।” इति कथयित्वा शराग्रेण स्वनेत्रे (vii) …………….. शिवलिङ्गस्य रक्ताक्तस्थानयोः योजयति स्म। तद् दृष्ट्वा प्रसन्नो भूत्वा ब्राह्मणः किरातस्य (viii) …………….. अपतत्। प्रभुकृपया किरातः पुनः दृष्टिं (ix) ……………..। सत्यभक्तस्य तादृशं (x) …………….. भवति।
मञ्जूषा – माहात्म्यं। दिने। पादयोः। मन्दिरं। द्रक्ष्यसि। शिवलिङ्गस्य। प्राप्नोत्। अकार्य। उत्पाट्य। भगवल्लीला।
उत्तर:
(i) मन्दिरं (ii) अकार्य, (iii) भगवल्लीला, (iv) दिने, (v) शिवलिङ्गस्य, (vi) द्रक्ष्यसि, (vii) उत्पाट्य (viii) पादयोः, (ix) प्राप्नोत्, (x) माहात्म्यं

3. सचिवस्य ईश्वरनिष्ठा
एकदा राज्ञः अगुली वृश्चनेन छिन्नाऽभवत्। तेन नृपः भूयसी (i) …………….. अन्वभवत्। सर्वे मन्त्रिणः आगत्य नपाय सान्त्वनावचांसि अवदन् (ii) …………….. प्रभुभक्तस्य सचिवस्य मुखे तस्मिन्नवसरे अपि तदेव (iii) …………….. आसीत् (iv) ……………… रतः परमेश्वरः यत्करोति, शोभनमेव करोति’ इति। अस्य मन्त्रिणः तद्वचनम् आकर्ण्य नृपः सचिवायाक्रुध्यत्। काले गते नृपस्य (v) …………….. शान्ताऽभवत्। तदा सः सचिवम् (vi) …………….. | ” सचिव! कथय, तव पुत्रः मृतः, मम चाङगुली छिन्ना, अत्र सर्वभूतहिते सः तव परमेश्वरः किं शोभनम् अकरोत्?” सचिवः शान्तभावेन (vii) …………….. न्यवेदयत्-प्रश्नोऽयं समीचीनः, तथा च अस्य उत्तरमपि (viii) …………….. अधुनाऽहं समर्थो नास्मि, किन्तु (ix) …………….. आवाम् तस्य कथनस्य (ix) …………….. अवगमिष्यावः।
मञ्जूषा – दातुम्। नृपाय। पीडाम्। कालान्तरे। सत्यताम्। सर्वभूतहिते। वाक्यम्। अपृच्छत्। पीडा। परं।
उत्तर:
(i) पीडाम् (ii) परं, (iii) वाक्यम्, (iv) सर्वभूतहिते, (v) पीडा (vi) अपृच्छत्, (vii) नृपाय, (viii) दातुम्, (ix) कालान्तरे, (x) सत्यताम्

4. ईश्वरः यत्करोति शुभमेव करोति
एकदा राजा सचिवमादाय आखेटाय गतः। तत्र वने सहसा केचन दस्यवः उभौ गृहीत्वा दस्युराजं समुपागताः। तत्र च उभयोः कृते आदेशोऽभवत् यत् (i) ………….. तयोः बलिः दीयताम्। दस्युराजस्य आदेशं परिपालयितुं यदा सर्व बलिकार्यं (ii) ………… आसीत् तदा दस्युराजेन (iii) ………. पुष्टः-‘अस्ति तव पुत्रः?’ सचिवः अवदत्-‘नास्ति’। दस्युराजः अकथयत्-देवी अपुत्रस्य (iv) …………….. न गृह्णाति। तर्हि मुञ्चैनम्। तदनन्तरं बलिं दातुं यदा (v) ……. दस्युराजस्य पुरतः आनीतः तदा तस्य छिन्नाम् अङ्गुली दृष्ट्वा (vi) ………. अकथयत्-“देवी अङ्गहीनस्य अपि बलिं` न वाञ्छति। अतः एनम् अपि (vii) ………..।” एवं मुक्तः नृपः राज्यसभाम् आगत्य घोषणां कृतवान् “सर्वभूतहिते रतः परमेश्वरः यत् करोत् िशोभनमेव” (viii) …………। प्रसन्नवदनः सः नृपः तस्मै सचिवाय (ix) . .. पुरस्कारस्वरूपां निजरत्नावली (x) ……………..।”
मञ्जूषा – दस्युराजः। नृपः। बलिं। प्रयच्छत्। मुञ्च। करोति। देव्यै। सज्जम्। सचिवः। सबहुमान।
उत्तर:
(i) देव्यै, (ii) सज्जम्, (iii) सचिवः, (iv) बलिं, (v) नृपः, (vi) दस्युराजः, (vii) मुञ्च, (viii) करोति, (ix) सबहुमानं (x) प्रायच्छत्

5. वीरबालकः अभिमन्युः
अभिमन्युः निजबलेन सह (i) …………….. अगच्छत्। सः एकाकी एव चक्रव्यूहस्य प्रवेशद्वारं (ii) सफलोऽभवत्, तस्य कोऽपि योद्धा अन्तः प्रवेष्टुं न समर्थः। साहसी बालक: (iii) …………….. एव षट् प्रवेशद्वाराणि त्रोटयित्वा चक्रव्यूहस्य अन्तः प्राविशत् सप्तमे प्रवेशद्वारे तस्य सप्तमहारथिभिः सह घोरं युद्धं जातम्। (iv) ……….. अतुल्या बाणवृष्टिं दृष्ट्वा सर्वे (v) …………….. मिलित्वा तस्योपरि युगपदेव (vi) …………….. अकुर्वन्। एकतः एकाकी बालकः आसीत् अपरतः (vii) ……………. सप्त महारथिनः। कुत्र गता (viii) …………….? चिरकालं (ix) …………….. युद्धं कुर्वन् अन्ततः सः वीरः वीरगति प्राप्तः। धन्योऽयं वीरबालकः। धन्या चेयं वीरभूमिः यत्र एतादृशाः वीराः बारम्बार (x) …………… ।
मञ्जूषा – युद्धभूमिम्। युद्धकलानिष्णाताः। जायन्ते। महारथिनः। एकाकी। युद्धमर्यादा। यावत्। वीरबालकस्य। आक्रमणम्। भेदने।
उत्तर:
(i) युद्धभूमिम्, (ii) भेट्ने, (iii) एकाकी, (iv) वीरबालकस्य, (v) महारथिनः, (vi) आक्रमणम्, (vii) युद्धकलानिष्णाताः, (viii) युद्धमर्यादा, (ix) यावत्, (x) जायन्ते

6. पुनर्मूषको भव दयार्द्वमुनिना योगसिद्धिना प्रथमं मूषकः विडालः कृतः, तदा (i) ………….. रक्षितुं विडालात् सः कुक्कुरः कृतः। कुक्कुरो भूत्वा इतस्ततः निर्भयं परिभ्रमन् असौ सिंहने दृष्टः। सिंहात् रक्षाम् इच्छन् कुक्कुरोऽयं मुनेः शरणं प्राप्तः। सिंहात् कुक्कुरस्य (ii) …………….. कुर्वन् योगसिद्धिः मुनिः कुक्कुरस्योपरि जलं परिसिञ्चन् अवदत्-‘सिंहो भव’। मुनी एवम् वदत्येव कुक्कुरः सिंहोऽभवत्। ‘आश्चर्यम् आश्चर्यम्’ इति (iii) …………….. सर्वे मुनयः कथयन्ति स्म-‘धन्यः एषः (iv) ………….. यस्य कृपया मूषकः सिंहोऽभवत्।’ तत् श्रुत्वा कृतघ्नः सिंहः अचिन्तयत्-‘यावद् अयं मुनिः (v) …………… तावद् मम स्वरूपस्य अपकीर्तिः भविष्यति। अतोऽहं मुनि (vi) …………….. कथं न निश्चिन्तो भवामि।’ एतद् विचार्य निजबलेन दृढं दृप्तः सिंहः मुनि (vii) …………… आगतः। योगसिद्धिः सिंहस्य दुर्भावं ज्ञात्वा (viii) ……. ‘पुनर्मूषको भव’। मुनेर्वचनात् (ix) ……. सिंहः पुनः मूषकोऽभवत्। विडालः मूषकं दृष्ट्वा तं (x) ………. अकरोत्।
मञ्जूषा – अशपत्। वदन्तः। कृतघ्नः। योगसिद्धिः। मारयित्वा। कुक्कुरात्। रक्षा निजाहारम्। जीवति। मारयितुम्।
उत्तर:
(i) कुक्कुरात्, (ii) रक्षा, (iii) वदन्तः, (iv) योगसिद्धिः, (v) जीवति, (vi) मारयित्वा, (vii) मारयितुम्, (viii) अशपत्, (ix) कृतघ्नः, (x) निजाहारम्

अभ्यासः

1. अधोलिखिताः लघुकथाः पठित्वा मञ्जूषानाञ्च सहायतया रिक्तस्थानां पूर्तिं करोतु भवान्।
(नीचे लिखीं लघुकथाओं को पढ़कर मञ्जूषाओं की सहायता से आप खाली स्थानों को भरिए।)
Read the following short story (paragraph) and fill up the blanks with the help of box.) (1 x 10 = 10)
(क) रामायणे इदं वर्णितं यत् एकदा स्व (i) …………….. जनकपुत्री सीता शृङ्गारम् अकरोत्। सा षोडश शृङ्गारं कृत्वा स्वशिरसि सौभाग्यचिह्न सिन्दूरम् अरचयत्। एतद् दृष्ट्वा श्रीहनुमान् (ii) …………….. अपृच्छत्–“मातः! भवती कथं (iii) …………….. स्वमस्तके सिन्दूरं रचयति।” माता सीता अवदत्-“प्रियवर! अनेन (iv) …………….. स्वामिनः आयुः (v) ………… सः प्रसीदति अपि। अतः अहम् एवं करोमि।” एतच्छ्रुत्वा हनुमान् ततः (vi) ………………। एकस्मिन् दिवसे श्रीहनुमान् सम्पूर्णे शरीरे (vii) …………….. लिम्पित्वा राजसभाम् आगच्छत्। तदा तस्य रक्तवर्णं (viii) …………….. दृष्ट्वा सर्वे जनाः अहसन्। कारणं पृष्टे सति हनुमान् अवदत्-“माता अवदत्-सिन्दूरेण स्वामिनः प्रसन्नता आयुश्च वर्धते, अतः अहमपि तेन कारणेन एव (ix) ……… शरीरे सिन्दूरम् अलिम्पम्।” एतच्छ्रुत्वा (x) ……… प्रसन्नः भूत्वा तस्य आलिङ्गनम् अकरोत्।

मञ्जूषा – शरीरम्, श्रीरामः, वर्धते, शृङ्गारकक्षे, प्राचलत्, स्वसम्पूर्णे, प्रतिदिनम्, सिन्दूरम्, सीताम्, सिन्दूरेण।

(ख) एकदा ऋषिः दयानन्द: वैदिकधर्मस्य प्रचारं कुर्वन् अनूपशहर नामकम् एकं (i) …………….. अगच्छत्। तत्र तस्य सत्सङ्गे अनेके नराः नार्यः च आगत्य तस्य अमृतवचनं श्रुत्वा (ii) ……………. धन्यं कुर्वन्ति स्म। अत: तस्य अनुयायिनां सङ्ख्या अपि अवर्धत। ते सर्वे ऋषिं प्रति (iii) …………….. अपि धारयन्ति स्म। एतद् दृष्ट्वा तस्य विरोधिनः ईjया दग्धाः अभवन्। ते स्वामिदयानन्दं (iv) …………….. अपि प्रयत्नम् अकरोत्। एकस्मिन् दिवसे एकस्मै युवकाय (v) …………….. दत्वा तस्य हस्तेन ऋषि दयानन्दं ताम्बूले विषम् प्रदापयन्। एतत् ज्ञात्वा योगविद्यया (vi) …………….. च ऋषिः तद् विषं बहिः निस्सार्य स्वस्थाने आगच्छत्। इदं वृत्तान्तं ज्ञात्वा स्वामिदयानन्दस्य (vii) ……………. आरक्षकः निरीक्षक: (पुलिसनिरीक्षक) सैयद मोहम्मदः तम् (viii) ……………. बन्ध नेन बद्ध्वा स्वामिनः समीपं नीतवान्। दण्डार्थञ्च स्वामिने निवेदितवान्। एतच्छ्रुत्वा ऋषिः गम्भीरस्वरेण अकथयत्-‘भवान् एनं मुञ्चतु’ अहं कञ्चिदपि जनं बंधने पतयितुं न आगच्छम् अपितु संसारं (ix) …………….. मोक्तुम् आगतवान्।’ एतत् कथयित्वा सः तं बन्धनात् मोक्तवान्। धन्यः आसीत् सः ऋषिः (x) …………….. सरस्वती।

मञ्जूषा – अपराधिनम्, धनम्, मुस्लिमभक्तः, नगरम्, बन्धनात्, मारयितुम्, ! न्यौलीक्रियाया, स्वामिदयानन्द, भक्तिभावम्, आत्मानं।

(ग) अहिंसायाः साक्षात्प्रतिमा भगवान् (i) …………….. एकदा कोसलदेशस्य राजधानी श्रावस्तीम् अगच्छत्। तदा तत्र नृपः प्रसेनजितः (ii) …………….. अकरोत्। सायंकाले भगवतः प्रवचने श्रोतृणां सङ्ख्या (iii) …………….. आसीत्। तस्याः कारणं भगवता पृष्टम्। तदा जनाः नृपश्च बिभेत्य नृशंसस्य दस्योः अङ्गुलिमालस्य (iv) ……….. अकुर्वन्। एतद् ज्ञात्वा भगवान् बुद्धः तं प्रति (v) …………….. गतवान्। विपिने महात्मानं बुद्धं दृष्ट्वा (vi) ……………… तस्मै स्थातुम् अकथयत्। तं भयङ्कराकृतिं दृष्ट्वा अपि न बिभेत्य बुद्धः अकथयत् “पुत्र! तव (vii) …………….. अहं तु अतिष्ठम् परं त्वं कदा स्थास्यसि।” सः पुनः तं शिक्षयन् विस्तारेण कथितवान्–“वत्स! अस्मिन् संसारे पूर्वस्मात् एव अनेकानि (viii) …………….. सन्ति तानि निरन्तरं जनान् पीडयन्ति। त्वं (ix) …………. कथं तानि वर्धयसि अतः त्वं तेभ्यः विरम।” बुद्धस्य उपदेशं श्रुत्वा मत्वा स च सः दस्युः (x) …………….. निक्षिप्य तस्य चरणयोः अपतत् तस्य च भक्तः अभवत्।

मञ्जूषा – अगुलिमालः, स्वखड्गं, अतिन्यूना, बुद्धः, राज्यम्, वनम्, कष्टानि, स्वपापाचरणैः, चर्चाम्, कथनेन।

(घ) महाभारतयुद्धात् पूर्वम् एकदा कौरवपाण्डवेषु सन्धिं कारयितुं योगेश्वरः (i) …………….. हस्तिनापुरं गतवान्। सः राजसभां गत्वा सम्राजं (ii) …………….. अवदत्-‘राजन्! कौरव-पाण्डवाः भवतामेव पुत्राः सन्ति। अतः तेषां मध्ये युद्धः न भवेत्। एतदर्थं भवान् एव (iii) …………….. कुर्यात्। अर्धराज्यस्य उत्तराधिकारिभ्यः (iv) …………….. यदि अर्ध राज्यं न दत्त्वा अपि भवान् पञ्चग्रामान् एव यच्छेत् तदा अपि (v) …………….. सन्तुष्टाः भविष्यन्ति महाविनाशकारी युद्धश्च न भूत्वा सर्वत्र शान्तिः, सुख सम्पन्नता: च भविष्यन्ति। एतच्छ्रुत्वा युवराजः (vi) ……………” अगर्जत् अकथयत् च-“श्रूयताम् गोपाल! अहं (vii) …………….. बिना राज्यं नाम तु किं सूच्याः अग्रभागमात्रकां (viii) ……………. अपि न दास्यामि।” एतत् श्रुत्वा श्रीकृष्णः ततः निर्गत्य स्वभक्तस्य (ix) गृहं गत्वा तत्र शाकं (x) …………….. प्रसन्नतया अखादत्।

मञ्जूषा – युद्धेन, प्रसन्नतया, धृतराष्ट्रम, दुर्योधनः, विदुरस्य, धराम्, श्रीकृष्णः, पाण्डवेभ्यः, पाण्डवाः, प्रयत्नम्।

2. छात्रस्य आत्मकथा विष्यमधिकृत्य मञ्जूषायां दत्तानाम् शब्दानां सहायतया रिक्तस्थानपूर्तिः क्रियताम्।
(छात्र की आत्मकथा के विषय में मञ्जूषा में दिए गए शब्दों की सहायता से रिक्त स्थान की पूर्ति कीजिए।
Fill in the blanks with suitable words given in the box about an autobiography of a student.)
अहमेकः छात्रः अस्मि। मम (i) …………….. प्रहर्षोऽस्ति। अहम् दिल्ली नगरस्य (ii) …………….. प्रतिष्ठिते (iii) ………. दशम्यां कक्षायां पठामि। मम विद्यालयः चतुर्दिक् क्षेत्रे (iv) ……….. अस्ति। अहं स्वगृहात् प्रातरेव सप्तवादने विद्यालयस्य (v) …………….. पठितुं गच्छामि। वाहने अन्येऽपि मम (vi) ……… मिलन्ति, यैः सह अहम्मनोरञ्जनं कुर्वन् विद्यालये गच्छामि। तत्र विद्यालयस्य परिश्रमिणः (vii) ………… अस्मान् श्रद्धया पाठयन्ति। तेषां सङ्गतिम् प्राप्य अहमतिप्रसन्नो भवामि। मम विद्यालये देशस्य (viii) …………… नेतारः, क्रीडकाः, अभिनेतारः, वैज्ञानिकाः अपि (ix) …………….. समागच्छन्ति स्वजीवनविषये च छात्रान् (x) ………….

मञ्जूषा – शिक्षकाः, बोधयन्ति, एकस्मिन्, अभिधानम्, यथासमय, प्रसिद्धाः, सहपाठिनः, प्रसिद्धः, वाहनेन, विद्यालये।

3. निम्नानुच्छेदे रिक्तस्थानानि मञ्जूषायां दत्तानां शब्दानां सहायतया सम्पूरयत।
(निम्न अनुच्छेद के रिक्त स्थान मञ्जूषा में दिए गए पदों की सहायता से पूरे कीजिए।
Fill in the blanks in the following paragraph with the help of the words given in the box.)
मम नाम संस्कृतिः। संस्कृतं संस्कारञ्च इमौ मम (i) …………….. स्तः। जीवनस्य (ii) …………….. एव संस्कृतिः। मामाधृत्य एव जनाः (iii) …………….. भवन्ति। ते स्वजीवने (iv) …………….. भवन्ति। संस्कारेण मानवाः जीवने (v) ……………. भवन्ति, आदरञ्च लभते। इमे संस्कारा एव (vi) …………….. संस्कुर्वन्ति। संस्कृतिः संस्कारश्च (vii) …………….. एव प्राप्नुतः। यतः संस्कृतग्रन्थाः एव तादृश्यः निधयः सन्ति याभिः (viii) ……. अनेक प्रकाराणि सुखानि प्राप्य (ix) …………….. स्वजीवनं सफलीकुर्तम् पारयन्ति। अतः एतेषाम् त्रयाणां प्राप्तिः कृत्वा एव मानवः स्वजीवने (x) …………….. भविष्यन्ति।

मञ्जूषा – जनान्, सफलाः, संस्कृतेन, भ्रातरौ, सफलाः, जनाः, आधारः, स्वजीवनं, परिश्रमशीलाः, संस्कृताः।

4. निम्नलिखितमनुच्छेदस्य रिक्तस्थानानि मञ्जूषायां दत्तानाम् शब्दानां सहायतया सम्पूरयत।
(निम्नलिखित अनुच्छेद के रिक्त स्थान मञ्जूषा में दिए गए पदों की सहायता से पूरे कीजिए।
Fill in the blanks in the following paragraph with the help of the words given in the box.)
पुरा (i) …………….. त्रयः एव विश्वविद्यालयाः आसन्-तक्षशिला, विक्रमशिला नालन्दा च। तेषु (ii) …………….. केवलं नालन्दा विश्वविद्यालये (iii) …………….. शिक्षा दीयते स्म। एवमेव तस्मिन्नेव (iv) …………….. कृषिः, आयुर्वेद, पशुविज्ञानं, कला शिल्पानाञ्च (v) …………….. दीयते स्म। अतः सप्तवर्षीयः सन् (vi) ……….. पञ्चविद्याः अधीतवान्। तासु शब्द विद्या-शिल्पस्थानम्-आयुर्वेद-हेतुविद्या-आध्यात्मिकी च विद्याः आसन्। एताः (vii) …………. पठित्वा छात्राः सत्या (viii) …………….. विवेकी जीवनदर्शनं च जानन्ति स्म। तदा भारतीय विज्ञान (ix) …………….. अति उत्कृष्टा मानवीयमूल्ययुक्ता च आसीत्। तदैव अस्माकं देशः (x) …………….. ‘स्वर्णखगः’ कथ्यते स्म।

मञ्जूषा – शिक्षा, भारतम्, भारते, छात्रः, विश्वविद्यालयेषु, बौद्धदर्शनस्य, विद्याः, परम्परा, सत्य, विश्वविद्यालये।

5. केशवदासेन ब्रह्मणेन कथितं निम्नानुच्छेदम् अधोदत्तेषु शब्देषु उचितं शब्दम् नीत्वा सम्पूरयत।
(केशवदास और ब्राह्मण के द्वारा कहे गए निम्न अनुच्छेद को नीचे दिए गए शब्दों से उचित शब्द लेकर भरिए।
Complete the following paragraph told by Keshavdas and a Brahmin, with suitable words given below.)
श्रूयताम! (i) ……………… खलु केशवदासो नाम (ii) …………….. अस्मि। महाराजेन (iii) …………….. अहम् (iv) …………….. स्थापितः। (v) …………….. दुर्योधनेन पुनः (vi) …………….. निष्कासितः। अधुना अहं किं करवाणि? (vii) …………….. अहम् महाराजमपि उपागतः परं (viii) …………….. न (ix) कृतम्। अहमतिभीतोऽस्मि। अतः उत्तरस्यां दिशि (x) …………….. सकाशं अधुना प्रस्थितोऽस्मि।
मञ्जूषा – तेन, स्वमातुलस्य, अहम्, किञ्चिद्, युधिष्ठिरेण, युवराजेन, ततः, सपरिवारम्, ब्राह्मणः, इन्द्रप्रस्थे।

6. निम्नलिखितां कथामाधृत्य उचितैः पदैः रिक्तस्थानपूर्तिः कर्त्तव्या।
(निम्नलिखित कथा के रिक्त स्थानों की पूर्ति उचित पदों से कीजिए।
Fill in the blanks of the following story with suitable words.)
उज्जयिन्याम् (i) …………….. नाम विप्रः अवसत्। तस्य भार्या तम् (ii) …………….. स्वबालापत्यस्य रक्षार्थं अवस्थाप्य (iii) …………….. गतवती। तत्पश्चात् विप्रः राज्ञा (iv) …………….. निमन्त्रितः। ब्राह्मणः (v) …………….. अचिन्तयत्-यदि (vi) …………….. शीघ्रं तत्र न गमिष्यामि तदा तु तत्र कश्चित् आगमिष्यति। अथ सः बालरक्षार्थं एक पुत्रवत् पालितं (vii) …………….. व्यवस्थाप्य गतवान्। पश्चात् प्रत्यावृत्य सः (viii) …………….. मुखपादं नकुलं दृष्ट्वा , ‘अनेन बालको खादितः’ इति अवधार्य तम् उपकारक (ix) व्यापादितवान्। तत्पश्चात् गृहं गत्वा बालकं सुस्थं सर्पं च मृतं दृष्ट्वा सर्वां कथां अनुमानितवान्। ततः परं (x) …………… प्राप्तवान्। ………….
मञ्जूषा – नकुलं, रक्तविलिप्तं, माधवः, स्नातुं, सहजदारिद्रयात्, विषादं, नकुलं, अहम्, ब्राह्मणं, श्राद्धार्थं।

7. निम्नकथामाधृत्य मञ्जूषायाः पदानां सहायतया उचितैः पदैः रिक्तस्थानानि पूरयन्ताम्।
(निम्न कथा पर आधारित मञ्जूषा के पदों की सहायता से उचित पद से रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks of the following story with suitable words from the box.)
पुरा भारते महातपा नाम एक: (i) …………….. मुनिः आसीत्। एकदा सः वने उपविष्टः आसीत् तदैव एका (ii) …………….. तमुपरि विष्ठामुदसृजत्। तदा मुनिः ताम् क्रोध दृष्ट्या अपश्यत् अतः तस्य-प्रभावेण सा (iii) …………….. अभवत्। अनेन महर्षिः अहङ्कारमुपगतः। सः एकदा एक ब्राह्मण (iv) …………….. मत्वा तद् गृहिणी भिक्षामयाचत। सा पतिसेवाम् कुर्वन्ती आसीत्। सा तस्मै (v) …………….. स्थातुमकथमत्। सः क्रुद्धदृष्टया तामपश्यत्। तमेवं (vi) ……………. सा हसित्वा अकथयत् मुने! नाहं (vii) …………….. इति। तच्छुत्वा (viii) …………….. चकितोऽभवत्। कथितवान् च ‘त्वया इदं (ix) …………….. ज्ञातम्? मह्यमुपदेशं यच्छ’। ततः सावदत् अहं तु एका सामान्या (x) …………….. अस्मि। पतिसेवाम् अन्यकिञ्चिन्न जानामि।

मञ्जूषा – बलाका, भस्मीभूता, दृष्ट्वा, वनवासी, गृहम्, कथम्, गृहिणी, बलाका, किञ्चिद्, मुनिः।

8. अधोलिखितमनुच्छेदं मञ्जूषायां रिक्तस्थानानि दत्तानां शब्दानां सहायतया समुचितं सम्पूरयत।
(नीचे लिखे अनुच्छेद के रिक्त स्थानों की पूर्ति मञ्जूषा से उचित पद लेकर कीजिए।)
Fill in the blanks of the following paragraph with suitable words from the box.)
पुराकाले भागीरथीतीरे पाटलिपुत्रनामधेये नगरे (i) …………….. नाम नृपोऽवसत्। सः एकदा विचरन् (ii) …… श्लोकद्वयं शुश्राव। तयोरर्थमासीत् यत् (iii) …………… कृते किञ्चिदसाध्यं नास्ति। विद्याहीनाः संसारे (iv) …………. भवन्ति। अतः कठिनं (v) …………….. कृत्वा अपि विद्याप्राप्तिः कर्त्तव्या। तस्य नृपस्य (vi) ………….. अपि विद्याहीनाः आसन्। अतः नृपः अतिदुःखितः आसीत्। एकदा सः सर्वान् (vii) …………… आहूय तेभ्यः स्वकष्टमकथयत्-भो मन्त्रिणः! भवन्तः सर्वे एव (viii) ……….. कुर्वन्तु, यतः मे पुत्राः विद्याया युक्ताः भवेयुः। एकदा तस्य (ix) …………….. विष्णुशर्मा नाम विद्वान् आगच्छत्। नृपः तस्मै (x) …….. शिक्षितान् कर्तुं प्रार्थितवान्।
मञ्जूषा – मन्त्रिणः, स्वपुत्रान्, सुदर्शनो, शोभाहीनाः, परिश्रम, कुत्रचित्, पुत्राः, राजसभायां, प्रयत्न, प्रयत्ने।

9. निम्नानुच्छेदं मञ्जूषातः समुचितं पदमादाय रिक्तस्थानानि सम्पूरयत।
(निम्नलिखित अनुच्छेद के रिक्त स्थानों की पूर्ति मञ्जूषा से उचित पद लेकर कीजिए।
Fill in the blanks of the following paragraph with suitable words from the box.)
एकदा मथुरायां शिक्षाप्राप्ति (i) …………….. स्वामिविरजानन्दम् स्वामिदयानन्दोऽवदत् ‘गुरुवर! मम शिक्षाग्रहणे (ii) …………….. अतिप्रयत्नं कृतम् एतदर्थम् अहम् (iii) …………….. धन्यवादी अस्मि। मम योग्यां सेवां कथय। अहं किं (iv) …………….. भवत्सेवायां यच्छानि? दयानन्दस्य एतां वार्ता (v) …………….. स्वामि (vi) …………….. गम्भीरः भूत्वाऽवदत्। पुत्र! किम् मया एतदर्थमेव (vii) ……………. पाठितः आसी:? मां कस्यचिदपि वस्तुनः (viii) …………….. आवश्यकता नास्ति। संन्यासी (ix) ……………. करबद्धः तमवदत् गुरुवर! कथयः, अहं भवत्सेवायां स्वजीवनमपि अर्पयिष्यामि। एतत् श्रुत्वा (x) …………….. प्रसन्नः अभवत्।

मञ्जूषा – विरजानन्दः, काले, दयानन्दः, श्रुत्वा, अधुना, वस्तु, भवता, त्वम्, गुरु विरजानन्दः भवताम्।

NCERT Solutions for Class 11 Sanskrit