Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 1 are designed as per the revised syllabus.

CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions

समय :3 होराः
सम्पूर्णाङ्काः : 80

सामान्यनिर्देशा:

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 8 पृष्ठानि मुद्रितानि सन्ति।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति।
  • अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
  • प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
  • उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
  • प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एवं लेखनीयः।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  • प्रश्नानां निर्देशा: ध्यानेन अवश्यं पठनीयाः।

(‘क’ खण्डः )
अपठितावबोधनम् (अंक : 10)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत
पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन्। तेषु दुष्यन्तः नाम एकः नृपः आसीत्। तस्य भार्या शकुन्तला आश्रमे पुत्रम् अजनयत्। तस्य नाम भरतः आसीत्। भरतः शैशवास्थायाम् अपि आश्रमे सिंहशावकैः सह क्रीडति स्म। एकस्य सिंहशावकस्य मुखम् उद्घाटयत् अवदत् च- ‘जम्भस्व सिंह! दन्तान् ते गणयिष्यामि।’ सिंहशावकः अपि जानाति स्म यत् भरतः अपि मया सदृशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत् न च आक्राम्यत्। तत्र तापसीभ्यां निषिद्धः अपि भरतः कथयति स्म – नाहं सिंहात् बिभेमि। इत्थम् आसीत् सः निर्भयः वीरः भरतः। भरतस्य अभिधानेन एव अस्माकं देशस्य आर्यावर्तस्य नाम ‘भारतम्’ अभवत्।

(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)

(i) निर्भयः वीरः च कः आसीत्?
उत्तर:
भरतः

(ii) भरतः कैः सह क्रीडति स्म? एकदा सः
उत्तर:
सिंहशावकैः

(iii) भरतस्य मातुः नाम किम् आसीत् ?
उत्तर:
शकुन्तला

(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) भरतः सिंहशावकं किम् अवदत् ?
उत्तर:
भरत: सिंहशावकम् अवदत् – ‘जृम्भस्व सिंह! दन्तान् ते गणयिष्यामि इति।

CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions

(ii) सिंहशावकः भरताय किमर्थं नाक्रुध्यत् न च आक्राम्यत्?
उत्तर:
सिंहशावकः अपि जानाति सम यत् भरतः अपि मया सदृशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत् न च आक्राम्यत्।

(ii) भरतः तापस्यौ किं कथयति स्म?
उत्तर:
भरतः तापस्यौ कथयति स्म – नाहं सिंहात् बिभेमि इति।

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
उत्तर:
वीर: भरतः, भरतेन भारतम्, भरतस्य निर्भयता/ वीरता। छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः करणीयः।

(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)

1. ‘इत्थम् आसीत् सः निर्भयः वीरः भरतः’ अत्र किं क्रियापदम्?
(क) इत्थम्
(ख) आसीत्
(ग) निर्भयः
(घ) वीरः
उत्तर:
(ख) आसीत्

2. ‘सदृशः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) नृपः
(ख) वीरः
(ग) निर्भयः
(घ) शिशुः
उत्तर:
(घ) शिशुः

3. ‘नृपाः’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) सिंहशावकः
(ख) दन्तान्
(ग) राजानः
(घ) प्रसिद्धाः
उत्तर:
(ग) राजानः

4. ‘गणयिष्यामि’ इति क्रियापदस्य कर्तृपदं किं भवेत्?
(क) अहम्
(ख) ते
(ग) सः
(घ) दन्तान्
उत्तर:
(क) अहम्

(‘रव’ रखण्ड:)
रचनात्मकं-कार्यम् (अंक : 15)

2. भवान् जयपुरवासी राजेन्द्रः अस्ति। स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत (1/2 × 10 = 5)
जयपुरतः
दिनाङ्कः …………..
प्रियमित्र मुकेश !
सस्नेहं (i) ………..।
अत्र कुशलं तत्रास्तु । भवान् इदं (ii)……………. अत्यधिक: प्रसन्नः भविष्यति यत् मम (iii)……….. दिव्यायाः विवाह: विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv)………… सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) सायं सप्तवादने आगमिष्यति। अस्मिन् मङ्गलावसरे भवान् सपरिवारः सादरं निमन्त्रितः। भवता स्वपरिवारेण सह विवाहतः (vi)………..पूर्वमेव अंत्र आगत्य व्यवस्थायां (vii)………..अपि करणीयम्। भवतः उपस्थिति: (viii)……… उत्साहं विश्वासं च वर्धिष्यते। इतोऽपि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix)…………………..। गृहे पितृभ्यां मम प्रणामाः।
भवंतः (×) ……………..
राजेन्द्र:

मख्जूषा-भविष्यति, मम, नमः, वरयात्रा, राकेशेन, सहाय्यम्, भगिन्या:, अभिन्नहृदयः, त्रिदिनानि, ज्ञात्वा
उत्तर:
पत्रलेखनम्
जयपुरतः
दिनाडू: 07/07/2022
प्रियमित्र मुकेश!
सस्नेहं (i) ……….. नम: ………..|
अत्र कुशलं तत्रास्तु। भवान् इदं (ii) ज्ञात्वा अत्यधिकः प्रसन्नः भविष्यति यत् मम (iii) भगिन्याः दिव्यायाः विवाह: विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) राकेशेन सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) वरयात्रा सायं सप्तवादने आगमिष्यति। अस्मिन् मड्नलावसरे भवान् सपरिवारः सादरं निमन्त्रितः। भवता स्वपरिवारेण सह विवाहतः (vi) त्रिदिनानि पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) सहाय्याम् अपि करणीयम्। भवतः उपस्थितिः (viii) मम उत्साहं विश्वासं च वर्धिष्यति। इतोडपि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) भविष्यति । गृहे पितृभ्यां मम प्रमाण:। भवतः (x)………..
भवतः (×) अभिन्नहृदयः
राजेन्द्रः

CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions

3. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions Img 1
मत्जूषा-क्रीडन्ति, उद्यानस्य, भ्रमन्ति, पुष्पाणि, वृक्षा:, बालाः, चित्रकार्यम्, हरीतिमा, दोलयतः।
उत्तर:
चित्रवर्णनम्
अत्र छात्रेभ्यः संक्षिप्तवाक्यरचना अपेक्षिता वर्तते। केवलं वाक्यशुद्धिः द्रष्टव्या। अस्य प्रश्नस्य प्रमुखम् उद्देशयं वाक्यरचना अस्ति। वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति। प्रतिवाक्यम् अर्धः अङू: भावस्य कृते अर्धः अड्ःः च व्याकरणदृष्टया शुद्धतानिमित्तं निर्धारितः अस्तिः मञ्जूषायां प्रदत्ताः शब्दाः सहायतार्थं सन्ति। छात्रः तेषां वाक्येषु प्रयोगं कुर्यादेव इति अनिवार्यं नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शक्नोति। मक्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते।
अथवा
मक्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत।

“वायुप्रदूषणम्”
मञ्जूषा-स्वास्थ्यम्, पर्यावरणस्य, रक्षका:, उद्योगानाम्, प्राणवायुम्, वृक्षारोपणम्, उपायाः, निर्माणकार्यम्, सहायकाः, वाहनानां धूम्र:, श्वासरोगाः।
उत्तर:
अनुच्छेदलेखनम्
अयं विकल्पः सर्वेभ्यः अस्ति। छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तन कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्तुवन्ति। अतः अड़ा देयाः। अस्य मूल्याङुनाप अन्ये नियमा: चित्रवर्णनस्य अनुगुणं पालनीया:।

4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं वाक्यपज्चकम्) (1 × 5 = 5)

(i) उसने संस्कृतपुस्तक पढ़ी।
He read Sanskrit Book.
(ii) मेरे घर के पास विद्यालय है।
The school is near my house.
(iii) बसन्त सभी ऋतुओं में श्रेष्ठ है।
Spring is the best among all seasons.
(iv) बच्चो! तुम सब उधर मत जाओ।
Children! do not go that side.
(v) छात्र कक्षा में भोजन नहीं करेंगे।
Students will not eat in class.
(vi) शिवाजी शक्तिमान् राजा था।
Shivaji was a mighty king.
(vii) भारतीय संस्कृति विश्व में प्रसिद्ध है।
Indian culture is famous in the world.
उत्तर:
अनुवादः (केवलं वाक्यपज्वकम्)
(i) सः/सा संस्कृतपुस्तकम् अपठत्/पठितवान्/पठितवती।
(ii) मम गृहस्य समीपे विद्यालयः अस्ति।
(iii) वसन्तः सर्वेषु ऋतषु श्रेष्ठ: अस्ति।
(iv) भो बाला:/बालका:! यूयं तत्र मा गच्छत।
(v) छात्राः कक्षायां भोजनं न करिष्यन्ति।
(vi) शिवाजी शक्तिमान् राजा/नृपः आसीत्।
(vii) भारतीया संस्कृतिः विश्वे प्रसिद्धा अस्ति।

(‘ग’ रवण्ड:)
अनुप्रयुक्तव्याकरणम्

5. अधोलिखितवाक्येषु रेखाड्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत (केवलं प्रश्नचतुष्ट्यम्) – (1 × 4 =4)
(i) सड्कोचमझ्चति सरः + त्वयि दीनदीनो।
(ii) ते चक्षुर्नामनी मते।
(iii) स: कृच्छ्रेण भारम् उत् + वहति
(iv) पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
(v) किं नामधेयः + भवतो: गुरुः?
उत्तर:
सन्धि: सन्धिच्छेदश्च (केवलं प्रश्नचतुष्ट्म)
(i) सरस्त्वयि
(ii) चक्षु: + नामनी
(iii) उद्वहति
(iv) स्यात् + न
(v) नामधेयो भवतो:

6. अधोलिखितवाक्येषु रेखाड्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत (केवलं प्रश्नचतुष्ट्यम्) – (1 × 4 =4)
(i) सर्वथा समरूपः कुटुम्बवृतान्तः
(क) कुटुम्बः वृतान्तः
(ख) कुटुम्बाय वृतान्तः
(ग) कुटुम्बस्य वृतान्त:
(घ) कुटुम्बम् वृतान्तम्
उत्तर:
(ग) कुटुम्बस्य वृतान्त:

(ii) समानं शीलं व्यसनं येषां तेषु सख्यम्।
(क) समानशीलव्यसनेषु
(ख) समानशीलव्यसनम्
(ग) समानशीलव्यसनानि
(घ) समानशीलव्यसनेभ्य:
उत्तर:
(क) समानशीलव्यसनेषु

(iii) न हि निर्मलं जलम्।
(क) मलस्य योग्यम्
(ख) मलस्य अभाव:
(ग) मलं प्रति
(घ) मलम् अनतिक्रम्य
उत्तर:
(ख) मलस्य अभाव:

(iv) व्याघ्रचित्रकौ नदीजलं पातुम् आगतौ।
(क) व्याघ्रौ चित्रकौ च
(ख) व्याघ्र: च चित्रकौ च
(ग) व्याघ्रौ च चित्रक: च
(घ) व्याघ्र: च चित्रक: च
उत्तर:
(घ) व्याघ्र: च चित्रक: च

CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions

(v) स: वृषभं च वृषभं च नीत्वा गृहमगात्
(क) वृषभा:
(ख) वृषभान्
(ग) वृषभौ
(घ) वृषभाभ्याम्
उत्तर:
(ग) वृषभौ

7. अधोलिखितवाक्येषु रेखाड्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत (केवलं प्रश्नचतुष्ट्यम्) (1 × 4 =4)

(i) किं कुपिता एवं भणति ?
(क) कुपिता + टाप्
(ख) कुपित + टाप्
(ग) कुपितः + ङीप्
(घ) कुपित + इक्
उत्तर:
(ख) कुपित + टाप्

(ii) बुद्धि + मतुप् सा भयात् विमुक्ता।
(क) बुद्धिवान्
(ख) बुद्धिमान:
(ग) बुद्धिमान्
(घ) बुद्धिमती
उत्तर:
(घ) बुद्धिमती

(iii) तदेव सम + त्व कथ्यते।
(क) समत्वम्
(ख) समत्व:
(ग) समता
(घ) समत्त्वम्
उत्तर:
(क) समत्वम्

(iv) जनाः प्रातः दिन + ठक् समाचारपत्रं पठन्ति।
(क) दैनिक:
(ख) दैनिकी
(ग) दैनिकम्
(घ) दैनिका:
उत्तर:
(ग) दैनिकम्

(v) सम्पत्तौ विपत्तौ च महताम् एकरूपता
(क) एकरूप + त्व
(ख) एकरूप + तल्
(ग) एकरूपत + टाप्
(घ) एकरूप + ता
उत्तर:
(ख) एकरूप + तल्

8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत (केवलं प्रश्नत्रयम्) – (1 × 3 = 3)

(i) मालिका – प्रतिष्ठे! किं त्वं संस्कृतस्य विज्ञानप्रदर्शनीं द्रष्टुंत्र………….. ?
(क) गम्यते
(ख) गच्छति
(ग) गच्छसि
(घ) गच्छामि
उत्तर:
(ग) गच्छसि

(ii) प्रतिष्ठा – न मालिके!…………… तत्र न गम्यते।
(क) मया
(ख) अहम्
(ग) त्वया
(घ) आवाम्
उत्तर:
(क) मया

(iii) मालिका – अधुना त्वया गृहे किं…………..?
(क) क्रियन्ते
(ख) करोषि
(ग) करोति
(घ) क्रियते
उत्तर:
(घ) क्रियते

(iv) प्रतिष्ठा – श्व: मम परीक्षा भविष्यति अतः मया अधुना पठ्यन्ते।
(क) पुस्तकम्
(ख) पुस्तकानि
(ग) पुस्तकै:
(घ) पुस्तके
उत्तर:
(ख) पुस्तकानि

9. कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत (केवलं प्रश्नचतुष्ट्यम्) – (1 × 4 = 4)

(i) मम माता ………… 4:15 वादने उत्तिष्ठति।
उत्तर:
सपाद-चतुर्वादने

(ii) सा …………. 5: 00 वादने योगाभ्यासं करोति।
उत्तर:
पञ्ववादने

(iii) तदन्तरम् सा स्नात्वा ………… 6:45 वादने भोजनं पचति।
उत्तर:
पादोन-सप्तवादने

(iv) भोजनं गृहीत्वा अहम् ………… 7:30 विद्यालयं गच्छामि।
उत्तर:
सार्ध-सप्तवादने

(v) अहम् …………… 2000 वादने आगत्य पुन: भोजनं करोमि।
उत्तर:
द्विवादने

10.मञ्जूषायां प्रदत्तै: उचितै: अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत (केवलं प्रश्रयम्र) – (1 × 3 = 3)
(i) केचिद् अम्भोदा : …………… गौराड्झ:?
उत्तर:
वृथा

(ii) यदि अहं कृष्णवर्ण: ……………. त्वं किं गौराड्झ: ?
उत्तर:
तर्हि

(iii) अयं प्रवास: अतिदीर्घ: दारुण: ……………।
उत्तर:

(iv) भवान् ………… भयात् पलायितः ?
उत्तर:
कुतः

11.अधोलिखितवाक्येषु रेखाड्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुन: लिखत (केवलं प्रश्नत्रयम्र) – (1 × 3 = 3)
(i) त्वां पितुः नाम किम् अस्ति ?
(क) त्वम्
(ख) तव
(ग) त्वया
(घ) त्वयि
उत्तर:
(ख) तव

(ii) ते श्व: विद्यालयं गच्छन्ति।
(क) अगच्छन्
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) अगच्छताम्
उत्तर:
(ग) गमिष्यन्ति

(iii) यत्रास्ते सा धूर्ता: तत्र गम्यताम्।
(क) धूर्ता
(ख) धूर्त:
(ग) धूर्तौ
(घ) धूर्ते
उत्तर:
(क) धूर्ता

CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions

(iv) स: बुद्धिमती कानने एकं व्याघ्रं ददर्श।
(क) तत्
(ख) ताः
(ग) ते
(घ) सा
उत्तर:
(घ) सा

(‘घ’ रवण्ड:)
पठितावबोधनम्

12.अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत
कश्चित् कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणं कुर्वन्नमस्युत्र तयो: बलीवर्दयो: एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बभं वृषभं तोदनेन नुद्यमानः अवर्तत। सः वृषभः हलमूढवा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्ध: कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। यथापि वृषभः नोत्थितः। भूमौ पतितं स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत् – “अयि शुभे ! किमेवं रोदिषि? सा च “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषक: तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं स: न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्।

(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1)
(क) क: क्षेत्रे अपतत् ?
(ख) सुरभिः कासां माता आसीत् ?
(ग) कृषकः कं बहुधा पीडयति स्म ?
उत्तर:
(अ) एकपदोन उत्तरत (केवलं प्रश्नद्वयम्)
(क) वृषभः/दुर्बलवृषभः
(ख) सर्वधेनूनाम्
(ग) वृषभम्/दुर्बलवृषभम्

(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) सुरभि: किमर्थ रोदिति स्म ?
(ख) पतितं वृषभम् उत्थापयितुं क: प्रायतत ?
(ग) सुराधिप: काम् अपृच्छत् ?
उत्तर:
(आ)पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
(क) स्वपुत्र्य (वृषभस्य) दैन्यं दृष्टा सुरभिः रोदिति स्म।
(ख) क्रुद्ध: कृषीवल:/कृषक: पतितं वृषभम् उत्थापयितुं प्रायतत।
(ग) सुराधिपः सुरभिम् अपृच्छत्।

(इ) निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(क) ‘मातुः सुरभेः नेत्राभ्याम् आश्रूणि आविरासन्’ इत्यस्मिन् वाक्ये कर्तृपदं किम् ?
(ख) ‘कृषीवलः’ इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
(ग) ‘तीव्रगत्या’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर:
(इ) निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्)
(क) अश्रूणि
(ख) क्रूद्ध:
(ग) जवेन

13.अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-5

उदीरितोऽर्थ: पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डतो जनः परेड्भित्ज्ञानफला हि बुद्धयः॥
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम् ) 1/2 × 2 = 1
(क) कीदृशाः नागाः वहन्ति ?
(ख) पशुना कीदृशः अर्थः गृह्यते ?
(ग) परेड्नित्ज्ञानफलाः काः भवन्ति ?
उत्तर:
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
(क) बोधिताः
(ख) उदीरितः/उदीरितोऽर्थ:
(ग) बुद्धय:

(आ)पूर्णवाक्येन उत्तरत-( केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) पण्डितः जनः किं करोति ?
(ख) मतयः कीदृश्य: भवन्ति ?
(ग) के के बोधिताः भारं वहन्ति ?
उत्तर:
(आ)पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
(क) पण्डितः जनः अनुक्तमपि ऊहति।
(ख) मतयः परेक्मिज्ञानफलाः भवन्ति।
(ग) हयाः नागाः च बोधिताः भारं वहन्ति।/हया: नागाश्च बोधिता: भारं वहन्ति।

(इ) निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम् ) (1 × 2 = 2)

(क) ‘नागाश्च वहन्तिः’ अस्मिन् वाक्ये क्रियापदं किम् ?
(ख) ‘गजा:’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
(ग) ‘पण्डितः’ इत्यस्य विशेष्यपदं चित्वा लिखत।
उत्तर:
(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्)
(क) वहन्ति
(ख) नागा:
(ग) जन:

CBSE Sample Papers for Class 10 Sanskrit Set 1 with Solutions

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5

(गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंह: अपि हसति वदति च।)
सिंह: भो गज! मामप्येवमेवातुदन् एते वानराः।

वानर: एतस्मादेव तु कथयामि यदहमेव योग्य: वनराजपदाय येन विशालकायं पराक्रमिणं भयड्करं चापि सिंहं गजं वा पराजेतुं समर्था अस्माकं जातिः। अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः। (एतत्सर्वं श्रुत्वा नदीमध्यस्थितः एक: बक:)

बक: अरे! अरे! मां विहाय कथमन्यः कोडपि राजा भवितुमर्हति। अहं तु शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजनां निर्मीय च स्व सभायां विविधपदमलड्कुर्वाणै: जन्तुभिश्च मिलित्वा रक्षेपायान् क्रियान्वितान् कारयिष्यामि अतः अहमेव वनराजपदप्राप्तये योग्यः।

(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1)
(क) स्थितप्रज्ञः इव कः स्थितः भवति ?
(ख) वानर: बक: च कस्मै आत्मानं योग्यौ मन्येते ?
(ग) सिंहं गजं वा पराजेतुं केषां जातिः आत्मानं समर्था मन्यते ?
उत्तर:
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)
(क) बक:
(ख) वनराजपदाय
(ग) वानराणाम्

(आ)पूर्णवाक्येन उत्तरत-( केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) सिंह: किं दृष्ट्वा हसति?
(ख) वन्यजन्तूनां रक्षायै के आत्मानं क्षमाः मन्यन्ते ?
(ग) बक: कथं रक्षोपायान् क्रियान्वितान् कारयिष्यति ?
उत्तर:
(आ)पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)
(क) सिंह: गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा हसति।
(ख) वन्यजन्तूनां रक्षायै वानराः आत्मानं क्षमा: मन्यन्ते।
(ग) बकः स्वसभायां विविधपदमलड्कुर्वाणै: जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यति।

(इ) निर्देशानुसारम् उत्तरत – ( केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘त्यक्त्वा’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
(ख) ‘मामप्येवमेवातुदन् एते वानरा:’ अस्मिन् वाक्ये क्रियापदं किम् ?
(ग) ‘शीतले’ इत्यस्य विशेष्यपदं चित्वा लिखत।
उत्तर
(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्)
(क) विहाय
(ख) अतुदन्
(ग) जले

15.रेखाड्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्ट्यम्) – (1 × 4 = 4)
(क) कालायसचक्रं सदा वक्रं भ्रमति।
(ख) सा निजबुद्ध्या भयाद् विमुक्ता।
(ग) राम: सवाष्पम् अवलोकयति।
(घ) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(ङ) ललितलतानां माला रमणीया।
उत्तर:
प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्ट्यम)
(क) किं सदा वक्रं भ्रमति ?
(ख) सा कया भयाद् विमुक्ता ?
(ग) क: सवाष्पम् अवलोकयति?
(घ) करुणापरो गृही कस्मै आश्रयं प्रायच्छत् ?
(ङ) कासां माला रमणीया।

16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुनः लिखत

रे रे चातक ! सावधानमनसा मित्र ! क्षणं श्रूयता
अम्भोदा बहवो हि सन्ति गगने सर्वेडपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥
अन्वय:
रे रे मित्र चातक ! (i) ………… क्षणं श्रूयताम्। गगने हि बहवः।
(ii) ……….. सन्ति। सर्वे अपि एतादृशाः न (सन्ति)। केचिद् वृष्टिभि:
(iii) ……. आर्द्रयन्ति, केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरतः दीनं
(iv)……. मा ब्रूहि।
उत्तर:
अन्वय:-
रे रे मित्र चातक! (i) सावधानमनसा क्षणं श्रूयताम्। गगने हि बहवः
(ii) अम्भोदाः सन्ति। सर्वे अपि एतादृशा: न (सन्ति)। केचिद् वृष्टिभि:
(iii) वसुधाम् आर्द्रयन्ति, केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरतः दीनं
(iv) वचः मा ब्रूहि।
अथवा
मञ्जूषाया: साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुन: लिखत- (1 × 4 = 4)
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते ॥
भावार्थ:-अस्य भावः अस्ति यत् अस्मिन् संसारे (i) एव (ii) …………… मन्यन्ते यतोहि ते ज्ञानवन्तः भवन्ति ज्ञानं च मनुष्यस्य वास्तविकं (iii)…………………. अस्ति। अन्येषां जनानां (iv) ……………….. ये नेत्रे भवतः ते तु चक्षुर्नामनी भवतः। ज्ञानं विना ते अन्ध इव भवन्ति।

उत्तर:
अस्य भावः अस्ति यत् अस्मिन् संसारे (i) बुद्धिमन्तः एव
(ii) नेत्रवन्तः मन्यन्ते यतोहि ते ज्ञानवन्तः भवन्ति ज्ञानं च मनुष्यस्य वास्तविकं
(iii) चक्षुः अस्ति। अन्येषां जनानां
(iv) मुखे ये नेत्रे भवतः ते तु चक्षुर्नामनी भवतः। ज्ञां विना ते अन्ध इव भवन्ति।

17. अधोलिखित-कथांशं समुचित-क्रमेण लिखत – (1/2 × 8 = 4)

(क) सः पुत्रं द्रष्टुं बसयानं विहाय पदातिरेव प्राचलत्।
(ख) न्यायाधींशः तम् अतिथिं ससम्मानं मुक्तवान्।
(ग) तस्मिन् गृहे रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(घ) मार्गे रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(ङ) कश्चन निर्धनः जन: वित्तमुपार्जितवान्।
(च) चौरस्य पदध्वनिना अतिथि: प्रबुद्धः अभवत् तमन्वधावत् च।
(छ) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुम् आदिष्टौ।
(ज) पठनकाले छात्रावासे निवसन् तस्य पुत्र: रुग्ण: अभवत् ।
उत्तर:
(क) कश्चन निर्धनः जनः वित्तमुपार्जितवान्।
(ख) पठनकाले छात्रावासे निवसन् तस्य पुत्रः रुग्णः अभवत्।
(ग) सः पुत्रं द्रष्टुं बसयानं विहाय पदातिरेव प्राचलत्।
(घ) मार्गे रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(ङ) तस्मिन् गृहे रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(च) चौरस्य पदध्वनिना अतिथिः प्रबुद्ध अभवत् तमन्वधावत् च।
(छ) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुम् आदिष्टौ।
(ज) न्यायाधीशः तम् अतिथिं ससम्मानं मुक्तवान्।

18. अधोलिखितवाक्येषु रेखाड्कित्तपदानां प्रसड़गनुकूलम् उचितार्थ चित्वा लिखत (केवलं प्रश्नत्रयम्) – (1 × 3 =3)

(i) तस्य भार्या बुद्धिमती पितुर्गृहं प्रति चलिता।
(क) पत्नी
(ख) भगिनी
(ग) भ्राता
(घ) भार:
उत्तर:
(क) पत्नी

(ii) मा ब्रूहि दीनं वच:।
(क) बाला
(ख) बाल:
(ग) वद
(घ) वाहक:
उत्तर:
(ग) वद

(iii) एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि।
(क) धमनम्
(ख) मार्गे
(ग) धनम्
(घ) धारा
उत्तर:
(ख) मार्गे

(iv) शतशकटीयानं धूम मुज्वति।
(क) धावति
(ख) पिबति
(ग) चलति
(घ) त्यजति
उत्तर:
(घ) त्यजति