Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 7 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 7 with Solutions
समय : 3 होरा:
सम्पूर्णाड्का: : 80
प्रश्नपत्रस्वरूपम्:
सैंपल पेपर 1 में दिये गये निर्देशानुसार।
(क’ रवण्ड:)
अपठितावबोधनम् (अंक : 10)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (10)
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
वर्तमानकाले मानवः समस्यावर्ते पीडितोऽस्ति। एकत्र देहस्य अनेके रोगाः, अन्यत्र मनसः चिन्ताः। कार्यवैफल्येन नैराश्यम् भवति। जीवनशैल्याः परिवर्तनं विना मार्गान्तरं नास्ति। व्यायामाभावात् शरीरस्य स्थौल्यं वर्धते तारुण्यावस्थायाम् च मधुमेहः जायते। एतदेव व्याधिः उच्यते। आधिव्याधिभ्यां पीडितो मानव: निद्रां न लभते। मानवः अतृप्त्या सदा खिद्यते। अतः यथाशक्ति शारीरिकश्रमः कर्त्तव्यः। यत्र पदभ्यां गन्तुं शक्यते तत्र वाहनेन न गन्तव्यम्। अलं श्रमचिन्तया। इदं शरीरं पोषितमपि पालितमपि च शोभते। स्वस्थशरीरेणैव मानवः सोत्साहं गृहस्थजीवनस्य सर्वविधानां समस्यानाम् समाधाने कुशलः भवति। सः आध्यात्मिकज्ञानमपि लभते। उक्तञ्च ‘शरीरमाद्यं खलु धर्मसाधनम्’।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) कस्य अभावात् शरीरस्य स्थौल्यं वर्धते?
(ii) मानवः कया सदा खिद्यते?
(iii) वर्तमानकाले कः समस्यावर्ते पीडितोऽस्ति?
उत्तर:
(i) व्यायामस्य
(ii) अतृप्त्या
(iii) मानवः
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) कार्यवैफल्येन किं भवति?
(ii) स्वस्थशरीरेणैव मानवः कासां समाधाने कुशलः भवति?
(iii) मानवैः यथाशक्ति कः कर्तव्यः?
उत्तर:
(i) कार्यवैफल्येन नैराश्यं भवति।
(ii) स्वस्थशरीरेणैव सर्वविधानां समस्यानाम्। समाधाने कुशलः भवति
(iii) मानवः शारीरिक श्रमः यथा शक्ति कर्त्तव्यः।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशब्दात्मक-वाक्यम्) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तर:
शरीररमाद्यं खलु धर्म साधनम् अथवा मानवस्य श्रमस्य महत्वम्
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘खिद्यते’ इत्यस्याः क्रियायाः कर्तृपदं किम्?
(क) सन्तोषः
(ख) मानवः
(ग) मधुमेहः
(घ) अतृप्त्या
उत्तर:
(ख) मानवः
(ii) ‘पीडितः मानवः’ अनयोः पदयोः विशेषणं किम्?
(क) पीडितः
(ख) मानव:
(ग) नरः
(घ) निद्रां
उत्तर:
(क) पीडितः
(iii) ‘देहस्य’ इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
(क) मानवस्य
(ख) दुःखस्य
(ग) शरीरस्य
(घ) वपुः
उत्तर:
(ग) शरीरस्य
(iv) अनुच्छेदे ‘अन्तिमम्’ पदस्य कः विपर्ययः आगतः?
(क) अलम्
(ख) आद्यम्
(ग) इदम्
(घ) साधनम्
उत्तर:
(ख) आद्यम्
रवण्ड: – रव (रचनात्मक-कार्यम्)
(अंक : 15)
2. पितरं प्रति लिखितम् अधः पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत (1/2 × 10 = 5)
(पिता को लिखे गए निम्नलिखित पत्र को मञ्जूषा में दिए गए शब्दों की सहायता से पूरा करके पुनः लिखिए।)
(i) …………..
दिनाङ्कः …………
पूज्याः (ii) ……..।
सादरं प्रणामाः।
अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्न: भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धाय मया (iii)…….. स्थानं लब्धम्। क्रीडादिवसे (iv)……… अहमेव प्रथम: आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v)……… | अयं वार्षिकोत्सवः आगामि-सोमवासरे (vi)……. । विद्यालयस्य पक्षतः ह्य एव (vi….. प्रेषितम्। अहमपि (vi)…….. | सूचयामि, भवान् अवश्यम् आगच्छतु। मम (ix)….. भविष्यति। भवतः आज्ञकारी पुत्रः,
(x)………।
उत्तर:
(i) प्रयागराजतः
(ii) पितृमहोदयाः
(iii) प्रथमम्
(iv) धावन प्रतियोगितायाम्
(v) करिष्यामि
(vi) आयोजयिष्यते
(vii) निमन्त्रणपत्रम्
(viii) भवन्तम्
(ix) उत्साहवर्धनम्
(x) पीयूषः
मञ्जूषा-निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, पीयूषः, उत्साहवर्धनम्, भवन्तम्, प्रयागराजतः, प्रथमम्, करिष्यामि, पितृमहोदयाः, आयोजयिष्यते ।
3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्चवाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मञ्जूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
उत्तर:
(i) अस्मिन् चित्रेबहवः जनाः परस्परं वार्तालापं कुर्वन्ति।
(ii) अस्मिन् चित्रे वृद्धजनाः अपि सन्ति।
(iii) अत्र स्त्रियः, पुरुषाः च पत्राणि अपि लिखन्ति ।
(iv) अत्र पति, पत्नी, बालिका: च सन्ति।
(v) अस्मिन् चित्रे बहवः हरिता: वृक्षाः सन्ति।
मञ्जूषा-पति, पत्नी, बालिका, वृक्षा: बहवः, जनाः, परस्परं, वार्तालापं, कुर्वन्ति, लिखति, पत्राणि, वृद्धजनाः अपि, सन्ति, स्त्रियः, पुरुषाः हरिताः
अथवा
(i) अस्मिन् वर्षे दिल्लीस्थः प्रगति मैदाने पुस्तकमेलकम् आयोजितम् आसीत्।
(ii) अहं मित्रैः सह तत्र अगच्छम्।
(iii) तत्र विभिन्नानि प्रकोष्ठानि आसन्, यत्र पुस्तकानि आसन्।
(iv) तत्र पुस्तकानां लोकार्पणम् अभवत्।
(v) तत्र संस्कृत पुस्तकानि अपि पठन्ति।
मञ्जूषायां प्रदत्तशब्दानां सहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
(मञ्जूषा में दिये गये शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए)
“पुस्तकमेलकम्”
मञ्जूषा-चित्राणि, पुस्तकानि, मित्राणि, लोकार्पणम्, अभवत्, अतीवप्रसन्ना, ध्वनिमुद्रिकाः, संगणकम्, अन्तःप्रवेशः, विविधं साहित्यम्, विभिन्नानि, प्रकोष्ठानि, संस्कृत-पुस्तकानि, जनाः, पश्यन्ति
4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य, लिखत-(केवलं पञ्चवाक्यम्) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)
(i) लता नाचती है।
Lata dances.
(v) रमा सीता के साथ पढ़े।
Rama study with Sita.
(ii) तुम सब गेंद से खेलते हो।
All of you play with the ball
(vi) वृक्ष से पत्ते गिरते हैं।
Leaves fall down from the tree.
(ii) कल मोहन बाजार जायेगा।
Mohan will to go the market tomorrow.
(vii) क्या मैं पहूँ?
May I read?
(iv) कल रमेश कहाँ था?
Where was Ramesh yesterday?
उत्तर:
(i) लता नृत्यति।
(ii) यूयं कन्दुकेन क्रीडथ।
(iii) श्वः मोहनः आपणं गमिष्यति।
(iv) ह्यः रमेशः कुत्र आसीत् ?
(v) रमा सीतया सह पठेत्।
(vi) वृक्षात् पत्राणि पतन्ति।
(vii) किं अहं पठेयम्?
रवण्ड: – ग (अनुप्रयुक्तव्याकरणम्)
(अंक : 25)
5. अधोलिखितेषु वाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्ट्यम्) (1 × 4 = 4)
(निम्नलिखित वाक्यों में रेखांकित पदों में संधि अथवा संधि-विच्छेद करके लिखिए।) (केवल चार प्रश्न)
(i) हयाः + च वहन्ति बोधिताः।
(iv) सम्पूर्णभारते एकच्छत्रं राज्यम् अस्ति।
(ii) श्रेष्ठम् + कर्म कर्तव्यम्।
(v) एतयोः + जननी तेनावमानिता।
(i) अस्माभिः सत् + मार्गे चलितव्यम्।
उत्तर:
(i) हयाश्च।
(ii) श्रेष्ठकर्म
(iii) सन्नमार्गे
(iv) एक + छात्रम्
(v) एतयोर्जननी
6. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत-(केवलं प्रश्नचतुष्ट्यम्) (1 × 4 = 4)
(निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिए गए विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) काचिदियमिति व्याघ्रमारी ।
(क) व्याघ्राय मारयति इति सा
(ख) व्याघ्रं मारयति इति सा
(ग) व्याघ्रस्य मारयति इति सा
(घ) व्याघ्रः मारयति इति स:
उत्तर:
(ख) व्याघ्रं मारयति इति सा
(ii) मुनिः राजानं इष्टम् अध्यनन्दत्।
(क) यथिष्टम्
(ख) यथाष्टम्
(ग) यथेष्टम्
(घ) यथोष्टम्
उत्तर:
(ग) यथेष्टम्
(iii) रामः लवकुशौ उपवेशयितुम् कथयति।
(क) लवम् च कुशम् च
(ख) लवाय च कुशाय च
(ग) लवः च कुश: च
(घ) लवम् कुशम् च
उत्तर:
(क) लवम् च कुशम् च
(iv) गलबद्धशृगालक: व्याघ्रः पुन: पलायितः।
(क) गलबद्धः शृगालक:
(ख) गले बद्ध शृगाल यस्य सः
(ग) शृगालस्य गले बद्ध
(घ) गले बद्धे यस्यस:
उत्तर:
(ख) गले बद्ध शृगाल यस्य सः
(v) क्रोधो हि शत्रुः देहस्य विनाशनाय।
(क) देहविनाशनाय
(ख) देहनाशने
(ग) देहोनाशनाय
(घ) विनाशनाय देहः तम्
उत्तर:
(क) देहविनाशनाय
7. अधोलिखितेषु वाक्येषु रेखांकितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा चितम् उत्तरं विकल्पेभ्यः चित्वा लिखत- (केवलं प्रश्नचतुष्ट्य म्) (1 × 4 = 4)
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) नास्ति मातृसमा प्रिय + टाप् ।
(क) प्रियाः
(ख) प्रियम्
(ग) प्रिया
(घ) प्रिये
उत्तर:
(ग) प्रिया
(ii) यत् मम सत्यप्रिय + तल।
(क) सत्यप्रियता
(ख) सत्यप्रियम्
(ग) सत्यापिता
(घ) सत्यप्रियत्व
उत्तर:
(क) सत्यप्रियता
(iii) व्याघ्रभयात् बुद्धिमती मुक्ता जाता।
(क) बुद्धि + ङीप्
(ख) बुद्धिमत् + टाप्
(ग) बुद्धिमत् + ङीप्
(घ) बुद्धिः + मतुप्
उत्तर:
(ग) बुद्धिमत् + ङीप्
(iv) परश्व: वयम् ऐतिहासिकस्थलानि द्रष्टुं गमिष्यामः।
(क) इतिहास + घञ्
(ख) इतिहास + ठक्
(ग) इतिहास + तल्
(घ) इतिहास + ल्यप्
उत्तर:
(ख) इतिहास + ठक्
(v) अयं सन्दर्भः प्रथमम् अवतीर्ण: वसुमतीम् ।
(क) वसु + मतुप्
(ख) वसु + तल्
(ग) वसु + तवत्
(घ) वसु + तमप्
उत्तर:
(ग) वसु + तवत्
8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत- (केवल प्रश्नत्रयम्) (1 × 3 = 3)
(वाच्य के अनुसार उचित पदों से रिक्त स्थानों को पूरा करके नीचे लिखे हुए संवाद को पुनः लिखिए) (केवल तीन प्रश्न)
(i) सुधा-इदानीम् …………. गीतापुस्तकं पठ्यते।
(क) पठामि
(ख) पठति
(ग) मया
(घ) अहम्
उत्तर:
(ग) मया
(ii) शीला-अहमपि प्रात: गीताम् …………….. |
(क) पठामि
(ख) पठ्यते
(ग) पठति
(घ) पठसि
उत्तर:
(क) पठामि
(iii) गीतायां कर्मयोगस्य निरूपणम् अस्ति, एतद्विषये …………… कथं चिन्त्यते?
(क) भवता
(ख) भवान्
(ग) भवती
(घ) भवत्या
उत्तर:
(घ) भवत्या
(iv) तेन व्याघ्रण तथाकृत्वा काननं ……………..।
(क) गम्यते
(ख) गच्छति
(ग) गच्छसि
(घ) गमति
उत्तर:
(क) गम्यते
9. अधोलिखितदिनचर्चायां रिक्तस्थानानि कालबोधकशब्दैः पूरयत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(कालबोधक शब्दों से निम्नलिखित दिनचर्या को पूरा कीजिए।) (केवल चार प्रश्न)
(i) उमा प्रात: 8:30 ……….. वादने गृहकार्य करोति।
(ii) सुनीलः प्रात: 6.15 ……….. वादने जागर्ति ।
(iii) अनिल: सायं 5:00 ……….. वादने उद्याने क्रीडति।
(iv) सा प्रात:7:30 ……….. वादने पूजां करोति।
(v) कमला रात्री 9.45 ………… वादने स्वपिति।
उत्तर:
(i) सार्ध-अष्ट
(ii) सपाद-षट् षड्
(iii) पञ्च
(iv) सार्घ सप्त
(v) पादोन दश
10. अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषायां प्रदतैः उचितैः अव्ययपदैः पूरयत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(मञ्जूषा में दिए गए उचित अव्यय पदों से वाक्यों में रिक्तस्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न)
(i) आशीषः ……….. अत्र आगमिष्यति।
(ii) उर्मिला सीता ……….. गीतं गायतः।
(iii) परीक्षकः ……….. परीक्षणं कृतवान्।
(iv) सोहन: त्वया ………… क्रीडितुम् इच्छति।
उत्तर:
(i) श्व:
(ii) च
(iii) ह्य:
(iv) सह
11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निम्नलिखित वाक्यों में रेखाङ्कित अशुद्धपद के लिए उचित पद चुनकर वाक्यों को पुनः लिखिए) (केवल तीन प्रश्न)
(i) त्वं कदा जन्तुशालां द्रक्ष्यामः ?
(क) पश्यथ
(ख) द्रक्ष्यसि
(ग) द्रक्ष्यन्ति
(घ) द्रक्ष्यामि।
उत्तर:
(ख) द्रक्ष्यसि
(ii) सुदामा कृष्णस्य मित्रः आसीत् ।
(क) मित्रे
(ख) मित्रम्
(ग) मित्राणि
(घ) मित्रेण।
उत्तर:
(ख) मित्रम्
(iii) कोकिला: गायति।
(क) गायत:
(ख) अगायत्
(ग) गायन्ति
(घ) गायसि
उत्तर:
(ग) गायन्ति
(iv) भ्रमरा: मधुपानम् अकरोत्।
(क) अकुरुताम्
(ख) अकरोत्
(ग) अकुरुथ
(घ) अकुर्वन्
उत्तर:
(घ) अकुर्वन्
खवण्ड: – घ (पठित-अवबोधनम्)
(अंक : 30)
12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
कश्चन निर्धनो जनः भूरि . परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्। पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’, एवं विचार्य स पावस्थिते ग्रामे रात्रिनिवासं कत्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) निर्धनजनः कथं वित्तम् उपार्जितवान् ?
(ii) तत्तनयः छात्रावासे निवसन् कस्मिन् संलग्नः समभूत्ः?
(iii) पिता कं द्रष्टुं प्रस्थितः?
उत्तर:
(i) परिश्रम्य
(ii) अध्ययने
(iii) पुत्रम्
(आ)पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) जनः किमर्थं पदाति: प्राचलत् ?
(ii) निशान्धकारे प्रसृते सः किम् अचिन्तयत् ?
(iii) तस्मै आश्रयं कः प्रायच्छत् ?
उत्तर:
(i) जनः अर्थकार्येन पीडितः पदातिः प्राचलत्।
(ii) स: निशान्धकारे प्रसृते विजने प्रदशे पदयात्रा न शुभावहा इति अचिन्तयत्।।
(iii) करुणापदो गृही तस्यै आश्रयं प्रायच्छत्।
(इ) निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)
(i) ‘धनम्’ इत्यस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(ii) ‘प्रस्थितः’ इति पदस्य कर्तृपदं किम्?
(iii) ‘गृही’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
उत्तर:
(i) वित्तम्
(ii) पिता
(iii) करुणापरः
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) अत्र किम् अकारणं द्वेषि उक्तम् ?
(ii) किम् उद्दिश्य यः प्रकुष्यति?
(iii) कस्य अपगमे मनुष्यः प्रसीदति?
उत्तर:
(i) मनः
(ii) निमित्तम्
(iii) निमित्तस्य
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) मनुष्यः कदा ध्रुवं प्रसीदति?
(ii) कं जनः कथमपि न परितोषयिष्यति?
(iii) कीदृशः जनः कदापि दुःखं न प्राप्नोति।
उत्तर:
(i) मनुष्य: निमित्तस्य अपगमे ध्रुवं प्रसीदति।
(ii) जनः अकारणद्वेषि मनस्तु परितोषयिष्यति।
(iii) परिश्रमं कुर्वाण: नरः कदापि दुःखं न प्राप्नोति।
(इ) निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)
(i) ‘यः’ इति कर्तृपदस्य क्रियापदं किम्?
(ii) ‘अकारणद्वेषि मनः’ अनयोः पदयोः किं विशेष्यपदम्?
(iii) ‘मनुष्यः’ इत्यस्य पदस्य कः पर्यायः श्लोके प्रयुक्तः ?
उत्तर:
(i) प्रकुप्यति
(ii) मनः
(iii) जनः
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत (05)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
लवः – भ्रातरावावां सोदयौं।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम् ?
लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ….|
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।
रामः – अहो ! उदात्तरम्य: समुदाचारः। किं नामधेयो भवतोर्गुरुः।
लव: – ननु भगवान् वाल्मीकिः।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) लवं कः पृच्छति यत् किं नामधेयम्?
(ii) लवकुशयो: गुरुः कः?
(iii) उदात्तरम्यः कः?
उत्तर:
(i) रामः
(ii) वाल्मीकिः
(iii) समुदाचारः
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कुशः किं कथयति?
(ii) भ्रातरावावां सौदयौं इति श्रुत्वा रामः किं कथयति?
उत्तर:
(i) कुशः कथयति- कुश इत्यात्मानं श्रावयामि।
(ii) समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)
(क) नाट्यांशे ‘श्रावयामि’ इति क्रियायाः कर्तृपदं किम् अस्ति?
(ख) उदात्तरम्यः समुदाचारः’ इत्यत्र विशेष्यपदं किम्?
(ग) ‘सहोदरौ’ इत्यस्य पर्यायपदं किं प्रयुक्तम?
उत्तर:
(क) अहं
(ख) समुदाचारः
(ग) सोदयौँ
15. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।) (केवल चार प्रश्न)
(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
(ख) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति?
(ग) धेनूनाम् माता सुरभिः आसीत्।
(घ) त्वं मानुषात् बिभेषि।
(ङ) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यते।
उत्तर:
(क) क:
(ख) कीदृशः
(ग) कासाम्
(घ) कस्मात्
(ङ) के
16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्यः अन्वयं पूरयत (1 × 4 = 4)
(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोक के अन्वय को पूरा कीजिए।)
उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेगितज्ञानफला हि बुद्धयः॥
अन्वयः-(i)……… अपि उदीरितः अर्थः …………..गृह्यते, बोधिताः हयाः (ii)………… च बोष्टि ताः (भारम्) वहन्ति। (iii)…………….. जनः अनुक्तम् अपि ऊहति। (iv)…………. परेङ्गितज्ञानफलाः हि (भवन्ति )।
उत्तर:
(i) पशुना
(ii) नागाः
(iii) पण्डितः
(iv) बुद्धयः
मञ्जूषा- नागाः, बुद्धयः, पशुना, पण्डितः
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मञ्जूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
वाक्यपटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥
भावार्थ:-य: मन्त्री (i)………….. सम्भाषणे चतुरः, धैर्ययुक्तः, (ii)…………..च भवति, सः मन्त्री (iii)…………… कथमपि (iv)……………न शक्यते।
उत्तर:
(i) सभायाम्
(ii) निर्भीकः
(iii) विरोधिभिः
(iv) तिरस्कर्तुम्
मञ्जूषा-तिरस्कर्तुम्, निर्भीकः, सभायाम्, विरोधिभिः |
17. अधोलिखित कथांशं समुचित-क्रमेण लिखत (1/2 × 8 = 4)
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)
(i) तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
(ii) चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयम्” इति।
(iii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृहणाच्च, परं विचित्रमघटत।
(iv) तस्यामेव रात्रौ कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
(v) विचित्रा दैवगतिः।
(vi) तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्ल्सयन्।
(vii) तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(viii) यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्।
उत्तर:
(v) विचित्रा दैवगतिः।
(iv) तस्यामेव रात्रौ कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
(i) तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः।
(iii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत।
(ii) चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्इति
(vi) तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्।
(viii) यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्।
(vii) तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् चितार्थं चित्वा लिखत-(केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(निम्नलिखित वाक्यों में रेखांकित शब्दों के प्रसंगानुकूल उचित अर्थ चुनकर लिखिए।) (केवल तीन प्रश्न)
(i) कश्चिद् धूर्तः शृगालः हसन्नाह।
(क) विडाल:
(ख) व्याघ्रः
(ग) जम्बुक:
(घ) मृगः
उत्तर:
(ग) जम्बुक:
(ii) पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः।
(क) शरीरस्य
(ख) पुत्रस्य
(ग) गात्रस्य
(घ) शिष्यास्य
उत्तर:
(ख) पुत्रस्य
(iii) अभियुक्तः अतीव कृशकायः ।
(क) दुर्बलः
(ख) सबल:
(ग) भीमकायः
(घ) बलिष्ठः
उत्तर:
(क) दुर्बलः
(iv) तस्य गृहम् राजमार्ग निकषा वर्तते।
(क) निकटम्
(ख) दूरम्
(ग) स्पर्शम्
(घ) समीपम्
उत्तर:
(क) निकटम्